Om Namho Bhagwate Vasudevay Namha
श्री विष्णु सहस्त्रनाम स्तोत्रम् विनियोग: अस्य श्रीविष्णुसहस्रनामस्तोत्रमहामन्त्रस्य, श्रीवेदव्यास ऋषयः, अनुष्टुप् छन्दः, श्रीमहाविष्णुर्देवता, अमृतांशूद्भवो भानुरिति बीजम्, देवकीनन्दनः स्रष्टेति शक्तिः, उद्भवः क्षोभणो देव इति परमो मन्त्रः, शङ्खभृन्नन्दकी चक्रीति कीलकम्, शार्ङ्गधन्वा गदाधर इत्यस्त्रम्, रथाङ्गपाणिरक्षोभ्य इति नेत्रम्, त्रिसामा सामगः साम निर्वाणं भेषजं तथा, धर्मं धर्मविदाम श्रेष्ठ इति धर्मः, विश्वरेव सदाह्लाद इत्यत्र मन्त्रः, श्रीमहाविष्णुप्रसादसिद्ध्यर्थे विनियोगः। ध्यानम्: क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत् सैकते मौक्तिकानां मालाक्लृप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः। शुभ्रैरभ्रैरदाभैरुपरिविरचितैर्मुक्तपीयूषवर्षैः आनन्दी नः पुनीयादरिनलिनगदाशङ्खपाणिर्मुकुन्दः॥ सहस्त्रनाम स्तोत्र (मुख्य भाग) १. विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः। भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः॥ २. पूतात्मा परमात्मा च मुक्तानां परमा गतिः। अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च॥ ३. योगो योगविदां नेता प्रधानपुरुषेश्वरः। नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः॥ ४. सर्व...
Comments
Post a Comment